Vishwanath Mangal Stotram PDF in Sanskrit

श्री विश्वनाथ मंगल स्तोत्र Vishwanath Mangal Stotram PDF in Sanskrit गङ्गाधरं शशिकिशोरधरं त्रिलोकी-रक्षाधरं निटिलचन्द्रधरं त्रिधारम् । भस्मावधूलनधरं गिरिराजकन्या-दिव्यावलोकनधरं वरदं प्रपद्ये ॥ १॥ काशीश्वरं सकलभक्तजनातिहारं विश्वेश्वरं प्रणतपालनभव्यभारम् । रामेश्वरं विजयदानविधानधीरं गौरीश्वरं वरदहस्तधरं नमामः ॥ २॥ गङ्घोत्तमाङ्ककलितं ललितं विशालं तं मङ्गलं गरलनीलगलं ललामम् । श्रीमुण्डमाल्यवलयोज्ज्वलमञ्जुलीलं लक्ष्मीशवरार्चितपदाम्बुजमाभजामः ॥ ३॥ दारिव्र्यदुःखदहनं कमनं सुराणां दीनार्तिदावदहनं दमनं रिपूणाम् । दानं श्रियां प्रणमनं भुवनाधिपानां मानं सतां वृषभवाहनमानमामः ॥ ४॥ श्रीकृष्णचन्द्रशरणं रमणं भवान्याः शशवत्प्रपन्नभरणं धरणं धरायाः । संसारभारहरणं करुणं वरेण्यं संतापतापकरणं करवै शरण्यम् ॥ ५॥ चण्डीपिचण्डिलवितुण्डधृताभिषेकं श्रीकार्तिकेयकलनृत्यकलावलोकम् । नन्दीशवरास्यवरवाद्यमहोत्सवाढ्यं सोल्लासहासगिरिजं गिरिशं तमीडे ॥ ६॥ श्रीमोहिनीनिविडरागभरोपगूढं योगेश्वरेशवरहदम्बुजवासरासम् ...